वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡प्र꣢ वस्त्रि꣣ष्टु꣢भ꣣मि꣡षं꣢ व꣣न्द꣡द्वी꣢रा꣣ये꣡न्द꣢वे । धि꣣या꣡ वो꣢ मे꣣ध꣡सा꣢तये꣣ पु꣢र꣣न्ध्या꣡ वि꣢वासति ॥३६०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रप्र वस्त्रिष्टुभमिषं वन्दद्वीरायेन्दवे । धिया वो मेधसातये पुरन्ध्या विवासति ॥३६०॥

मन्त्र उच्चारण
पद पाठ

प्र꣡प्र꣢꣯ । प्र । प्र꣣ । वः । त्रिष्टु꣢भ꣢म् । त्रि꣣ । स्तु꣡भ꣢꣯म् । इ꣡ष꣢꣯म् । व꣣न्दद्वी꣡रा꣣य । व꣣न्द꣢त् । वी꣣राय । इ꣡न्द꣢꣯वे । धि꣣या꣢ । वः꣣ । मेध꣡सा꣢तये । मे꣣ध꣢ । सा꣣तये । पु꣡र꣢꣯न्ध्या । पु꣡र꣢꣯म् । ध्या꣣ । आ꣢ । वि꣣वासति । ॥३६०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 360 | (कौथोम) 4 » 2 » 3 » 1 | (रानायाणीय) 4 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में यह विषय है कि स्तुति किया हुआ परमेश्वर क्या करता है।

पदार्थान्वयभाषाः -

हे साथियो ! (वः) तुम लोग (वन्दद्वीराय) वीरजनों से वन्दित (इन्दवे) तेजस्वी, स्नेह की वर्षा करनेवाले और चन्द्रमा के समान आह्लादकारी इन्द्र परमात्मा के लिए (त्रिष्टुभम्) आध्यात्मिक, आधिभौतिक और आधिदैविक इन तीनों सुखों को स्थिर करानेवाली अथवा ज्ञान, कर्म और उपासना इन तीन से स्थिर होनेवाली (इषम्) प्रीति और श्रद्धा को (प्र प्र) प्रकृष्टरूप से समर्पित करो, समर्पित करो। प्रीति और श्रद्धा से पूजित वह (मेधसातये) योगयज्ञ की पूर्णता के लिए (पुरन्ध्या) पूर्णता प्रदान करनेवाली (धिया) ऋतम्भरा प्रज्ञा से (आ विवासति) सत्कृत अर्थात् संयुक्त करता है ॥१॥

भावार्थभाषाः -

वीरजन भी अपनी विजय का कारण परमात्मा को ही मानते हुए जिस परमात्मा की बार-बार वन्दना करते हैं, उसकी सभी लोग प्रीति और श्रद्धा के साथ वन्दना क्यों न करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ स्तुतः परमेश्वरः किं करोतीत्याह।

पदार्थान्वयभाषाः -

हे सखायः ! (वः) यूयम् (वन्दद्वीराय२) वन्दन्ते वीराः वीरजनाः यं स वन्दद्वीरः तस्मै, वीरजनस्तुतायेत्यर्थः (इन्दवे) दीप्ताय, स्नेहवर्षकाय, चन्द्रवदाह्लादकाय वा इन्द्राय परमात्मने। ‘इन्दुः इन्धेः उनत्तेर्वा’ निरु० १०।४१। (त्रिष्टुभम्३) त्रीणि आध्यात्मिकाधिभौतिकाधिदैविकानि (सुखानि) स्तोभते स्तभ्नाति या ताम्, यद्वा त्रिभिः ज्ञानकर्मोपासनैः स्तोभ्यते या ताम्। त्रि पूर्वात् स्तभु स्तम्भे धातोः क्विपि रूपम्। (इषम्) प्रीतिं श्रद्धां च (प्र प्र४) प्रार्पयत, प्रार्पयत। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। प्रीत्या श्रद्धया च पूजितः सः (मेधसातये) योगयज्ञस्य पूर्णतायै। मेध इति यज्ञनाम। निघं० ३।१७। सातिरिति सम्भजनार्थात् षण धातोः क्तिन्नन्तो निपातः। (पुरन्ध्या) पुरं पूर्तिं दधातीति पुरंधिः तया। पॄ पालनपूरणयोः धातोः क्विपि ‘पुर्’ इति जायते, तदुपपदाद् दधातेः किः प्रत्ययः। (धिया) ऋतम्भरया प्रज्ञया (आ विवासति) परिचरति, संयोजयतीत्यर्थः। विवासतिः परिचरणकर्मा। निघं० ३।५ ॥१॥

भावार्थभाषाः -

वीरा अपि स्वविजयस्य कारणं परमात्मानमेव मन्यमाना यं मुहुर्मुहुर्वन्दन्ते स सर्वैरेव प्रीत्या श्रद्धया च कुतो न वन्दनीयः ॥१॥

टिप्पणी: १. ऋ० ८।६९।१ ‘वन्दद्’ इत्यत्र ‘मन्दद्’ इति पाठः। २. वन्दद्वीराय अधिकविक्रान्ताय इत्यर्थः—इति वि०। भरतस्तु मन्दद्वीराय इति पाठं मत्वा व्याख्याति। मादयति वीरान् स्तोतॄनिति मन्दद्वीरः—इति भ०। यो वीरान् स्तौति स वन्दद्वीरः तस्मै—इति सा०। ३. (त्रिष्टुभ्) याऽऽध्यात्मिकाऽऽधिभौतिकाऽऽधिदैविकानि त्रीणि सुखानि स्तोभते स्तभ्नाति सा—इति य० २३।३३ भाष्ये द०। त्रिभिः स्तुतम्, अथवा त्रिष्टुप्छन्दोयुक्तम्, स्तुतिसंयुक्तमित्यर्थः—इति वि०। त्रिस्तोत्रम् इषम् अन्नम्, सोममित्यर्थः। त्रिष्वपि अभिषवेषु पवमानस्य स्तुतिः क्रियते। स्तोभतेः स्तुतिकर्मणः स्तुप्—इति भ०। स्तोभत्रयोपेतम्—इति सा०। ४. ‘प्रसमुपोदः पादपूरणे। अ० ८।१।६’ इति पादपूरणे प्रोपसर्गस्य द्वित्वं विहितम्। वस्तुतस्तु उपसर्गपुनरुक्त्या पुनरुक्ता क्रिया भूयांसमर्थं द्योतयतीति न पादपूरणमात्रं प्रयोजनम्।